मुख्यपुटम्» शैक्षणिकम्» छात्रवृत्तयः
छात्रवृत्तयः
योग्यतासूच्यां प्राप्तस्थानानां, अनुसूचितजातीनां, जनजातीनां, आई.आर.डी.पी.इति वर्गीयाणां, ओ.बी.सी. इत्यादीनां च परिवाराणां विद्यार्थिनां कृते शिक्षाविभागद्वारा छात्रवृत्तिः दीयते। छात्रवृत्तिप्राप्त्यर्थं छात्रेण स्वयमेव अन्तर्जालमाध्यमेन आवेदनं कृत्वा निर्धारितयाम् अवधौ आवेदनस्य प्रतिलिपिः महाविद्यालये दातव्या। एतदतिरिक्तं नवदेहलीस्थेन केन्द्रीयसंस्कृतविश्वविद्यालयेन सञ्चालितायां छात्रवृत्ति-योजनायामपि प्रतिवर्षम् अस्य महाविद्यालयस्य छात्राणां पञ्जीकरणं क्रियते, यत्र सर्वेऽपि मेधाविनः विद्यार्थिनः छात्रवृत्तिं प्राप्नुवन्ति।
