सामान्य-नियमाः
• प्रत्येकमपि विद्यार्थी महाविद्यालय-परिसरात् बहिः सदसदाचरणाय स्वयमेव उत्तरदायी भविष्यति।
• अशिष्ट-व्यवहाराय स्पष्टीकरणम्, आर्थिकदण्डः, निष्कासनं वा महाविद्यालयपक्षतः व्यवहर्तुं शक्यते। अशिष्ट-व्यवहारे संलिप्तस्य विद्यार्थिनः छात्रवृत्तेः निरोधः अपि शक्यते।
• महाविद्यालये अनुपस्थितेः कक्षायाम् अनुपस्थितेः वा आर्थिक-दण्डः दातव्यः भविष्यति। यदि उपस्थितेः प्रतिशतं पञ्चसप्ततेः न्यून उपस्थितः भविष्यति तर्हि परीक्षाार्थम् आवेदनं कर्तुम् अनुमतिः नैव दास्यते।
• महाविद्यालयस्य छात्रः छात्रा वा काचित् राजनीतिक-गतिविधिषु भागं नैव ग्रहीष्यति।
• महाविद्यालये अध्येतृभिः विद्यार्थिभिः छात्रैः परिचयपत्रं महाविद्यालय-कार्यालयात् प्राप्यम् अपि च प्रत्येकमपि छात्रस्य महाविद्यालयागमनं सपरिचयपत्रमेव भवेत्।
• परिचयपत्रस्य लोपे, 50/- रूप्यकाणि शुल्कं दत्त्वा एव पुनः प्राप्तुं शक्यते।
• महाविद्यालये छात्रप्रताडनायाः (Ragging) अनुमतिः नास्ति। छात्रप्रताडना कश्चन अपराधः इति हिमाचलप्रदेश-सर्वकारेण घोषितम् एव अस्ति। अतः दोषेऽस्मिन् संलिप्तायां सत्यां महाविद्यालयद्वारा विधिसम्मतं दण्डनं विधास्यते।
• अस्माकं महाविद्यालय-परिसर-स्वच्छतायां समेषामपि छात्राणां सहयोगः अपेक्षितः।
पुस्तकालयः-नियमाः
महाविद्यालये समृद्धः पुस्तकालयः अस्ति। अस्मिन् संस्कृतस्य विशालं वैदिकलौकिकवाङ्मयं तु वर्तते एव अनेन सहैव छात्राणां साहाय्याय अपि पुस्तकानि सन्ति। पुस्तकालयेऽस्मिन् सर्वविधं दुर्लभं साहित्यम् सुलभम् अस्ति। संस्कृतभाषानिबद्धाः विविधाः ग्रन्थाः अत्र सुलभाः सन्ति येषां प्रयोगः अनुसन्धातारः कुर्वन्तः सन्ति।
• विद्यार्थिनः पुस्तकालयात् पञ्चदशदिनानां कृते पुस्तकं प्राप्तुं शक्नुवन्ति। यदि छात्रः 30 दिनानाम् अनन्तरं पुस्तकं पुस्तकालये न अर्पयति तर्हि छात्रेण एकं रूप्यं प्रतिदिनं विलम्बशुल्कं दातव्यं भविष्यति।
• विद्यार्थी एकवारं पुस्तकद्वयमेव स्वीकर्तुं शक्नोति। योग्याय निर्धनछात्राय प्राचार्यमहोदयस्य अनुमत्या पुस्तकद्वयात् अधिकम् अपि 30 दिनात्मकात् कालात् अधिकाय कालाय दातुं शक्यते।
• सन्दर्भपुस्तकानि तथा च दुर्लभानि पुस्तकानि दातुं न शक्यन्ते। एतानि पुस्तकालये एव पठनीयानि भविष्यन्ति।
• पुस्तकस्य लोपः, उत्पटनं नाशः वा यदि भवति तर्हि विद्यार्थिना समानम् एव पुस्तकं क्रीत्वा पुस्तकालये दातव्यं भविष्यति अथवा तत्समं मूल्यं पुस्तकालयाध्यक्षाय दातव्यं भविष्यति।
• पुस्तकालय-नियमानाम् उल्लङ्घने विद्यार्थिनं दण्डयितुं प्राचार्यः अधिकृतः अस्ति।
