प्रवेशनियमाः
प्राक्शास्त्रिप्रथमवर्षे प्रवेशार्थं नियमाः
प्राक्शास्त्रिप्रथमवर्षे ते सर्वेऽपि छात्राः प्रवेशार्हाः भविष्यन्ति ये मान्यताप्राप्तायाः परिषदः (बोर्ड) दशमीकक्षोत्तीर्णाः स्युः। अपि च यैः छात्रैः पूर्वमध्यमा-द्वितीय-खण्डस्य परीक्षा अथवा विद्याधिकारपरीक्षा उत्तीर्णाः तेऽपि प्राक्शास्त्रिप्रथमवर्षे प्रवेशार्थं योग्याः भविष्यन्ति।
प्राक्शास्त्रिद्वितीयवर्षे प्रवेशार्थं नियमाः
प्राक्शास्त्रिद्वितीयवर्षे मात्रं ते एव छात्राः प्रवेशं प्राप्तुं शक्नुवन्ति ये प्राक्शास्त्रि-प्रथमवर्ष-परीक्षोत्तीर्णाः स्युः।
आयुः
हिमाचलप्रदेशविश्वविद्यालयस्य पत्रसंख्यायाः 4-20/2015- एच.पी.यू. (शै.) 23 जून, 2017 अनुसारं प्राक्शास्त्रिप्रथमवर्ष-प्राक्शास्त्रि-विशिष्टशास्त्रि-आचार्य-कक्षासु प्रवेशार्थम् आयुसम्बन्धनः ते एव नियमाः भविष्यन्ति येषाम् उल्लेखः हिमाचलप्रदेशविश्वविद्यालयस्य अध्यादेशस्य 3.3 (ए) तमे अनुच्छेदे कृतः अस्ति।
शास्त्रि-उपाधिः
हिमाचलप्रदेशविश्वविद्यालयस्य अधिनियमस्य 2002 Vol. 1 Chapter 5.3 (L) तथा च Chapter 8.80-81 इत्येतयोः इच्छानुसारेण इत्यस्य अभिप्रायः तादृशः पाठ्यक्रमः अस्ति, यत्र विद्यार्थी निर्धारिते समायावधौ मात्रं संस्कृतस्य एव विविधान् पाठ्यक्रमान् अधीते। यतः एते पाठ्यक्रमाः मात्रम् एकं विषयं (संस्कृतम्) यावत् सीमिताः सन्ति। अतः एतादृशं पाठ्यक्रमम् अवलम्ब्य उत्तीर्णः विद्यार्थी स्नातककक्षा-समकक्षः न भविष्यति। अनेन कारणेन शास्त्रिपरीक्षोत्तीर्णः छात्रः स्नातकोत्तर-कक्षायां प्रवेशार्हः न भवति। परन्तु हिमाचलप्रदेशविश्वविद्यालयस्य 2002, VOL.1.1,8.77 अध्यादेशस्य व्याख्यायाः अनुसारं शास्त्रिपरीक्षोत्तीर्णः / लिखितानुपूरकपरीक्षः विद्यार्थी आचार्यप्रथमवर्षस्य कक्षायां प्रवेशं प्राप्तुं शक्नोति।
शास्त्रि-उपाधि-निमित्तं प्रवेशनियमाः
शास्त्रिप्रथमवर्षे प्रवेशार्थं ते सर्वेऽपि छात्राः योग्याः भविष्यन्ति, ये हिमाचलप्रदेश-विश्वविद्यालयस्य प्राक्शास्त्रिप्रथमवर्षं प्राक्शास्त्रि-द्वितीयवर्षं च उत्तीर्णवन्तः। एतदतिरिच्य ते सर्वेऽपि विद्यार्थिनः शास्त्रि-प्रथमवर्षे प्रवेशं प्राप्तुं शक्ष्यन्ति ये हिमाचलप्रदेशविश्वविद्यालय-द्वारा स्वीकृतेभ्यः मानितेभ्यः वा संस्थानेभ्यः प्राक्शास्त्रिप्रथमवर्षस्य, प्राक्शास्त्रिद्वितीयवर्षस्य समकक्ष-परीक्षाम् उत्तीर्णवन्तः।
हिमाचलप्रदेशविश्वविद्यालयेन 2022 तमस्य ख्रिष्टाब्दस्य दिसम्बरमासस्य त्रयोदशे दिनाङ्के अधिसूचितं यत् ये छात्राः +2 कक्षां संस्कृतविषये न उत्तीर्णवन्तः ते छात्रा अपि शास्त्रिप्रथमवर्षे प्रवेशं प्राप्तुं योग्याः सन्ति। किन्तु तैः छात्रैः शास्त्रिप्रथमवर्षे अनुवादस्य एकस्मिन् पत्रे उत्तीर्णता प्राप्या। अस्मिन् पत्रे प्राप्ताङ्कानां योगः कुलाङ्केषु न भविष्यति। परीक्षापत्रं 50 अङ्कानां भविष्यति। अस्य पाठ्यक्रमः निम्नप्रकारेण भविष्यति—
परीक्षापाठ्यक्रमः
शब्दरूपाणि — राम, लता, ज्ञान, अस्मद्, युष्मद्, तत्।
धातुरूपाणि — भू, पठ्, अस्, क्रीड्, चुर्।
लकाराः — लृट्, लट्, लोट्, लङ्।
विभक्तिपरिचयः, दशवाक्यानाम् अनुवादः कर्तृवाच्ये, दशवाक्यानि कर्मवाच्ये च।
अस्यां परीक्षायाम् उत्तीर्णाः शास्त्रिप्रथमवर्षे प्रवेशार्थं योग्याः सन्ति।
आयुसीमा
हिमाचलप्रदेशविश्वविद्यालयस्य 4-20/2015-एच.पी.यू.(शै.) दिनाङ्क 23 जून 2017 पत्रसंख्यायाः अनुसारं प्राक्शास्त्रि-विशिष्टशास्त्रि- आचार्यकक्षासु आयुसीमायाः ते सर्वेऽपि नियमाः मान्याः भविष्यन्ति येषाम् उल्लेखः हिमाचलप्रदेशविश्वविद्यालयस्य आदेशे 3.3 ए. तमे अनुच्छेदे अस्ति।
विशिष्टशास्त्री
हिमाचलप्रदेशविश्वविद्यालयस्य अध्यादेशस्य 2002 ए. खण्ड-1, 8.70 तथा च 8.71 अनुच्छेदस्य अनुसारं विशिष्टशास्त्री इत्यस्य अभिप्रायः एतादृशेन पाठ्यक्रमेण अस्ति यत्र विशिष्टशास्त्रि-निमित्तं निर्धारिते समयावधौ संस्कृतपाठ्यक्रमाणाम् अतिरिक्तं संस्कृतेतरयोः द्वयोः पाठ्यक्रमयोः अपि अध्ययनं करोति। अनयोः संस्कृतेतरयोः पाठ्यक्रमयोः सह आङ्ग्लपाठ्यक्रमः पठनीयः यः पाठ्यक्रमः स्नातककक्षायां बी.ए. पाठ्यते। आङ्ग्लभाषायाः अतिरिक्तं स्नातककक्षायां (बी.ए.) अध्याप्यमानस्य कस्यचन अन्यस्य (Elective additional) विषयस्य चयनं विद्यार्थी स्वरुच्यनुगुणं कर्तुं शक्नोति। परन्तु अयं विषयः (Elective additional) विशिष्टशास्त्रिकक्षायाम् अधीयमानस्य संस्कृतपाठ्यक्रमस्य विषयेभ्यः पृथक् स्यात्।
अनिवार्य टिप्पणी
अतिरिक्त-अनिवार्य / संस्कृतेतर-विषयैः (additional Elective/non Sanskrit Subject) सह विशिष्ट-शास्त्रि-परीक्षोत्तीर्णः छात्रः संस्कृतस्य स्नातकोत्तर-कक्षायां संस्कृतेतरासु स्नातकोत्तरकक्षासु शिक्षाशास्त्रकक्षायां (B.Ed.) एल.एल.बी. इत्यादिषु कक्षासु प्रवेशार्हः भविष्यति। एतदतिरिच्य विशिष्टशास्त्रिपरीक्षोत्तीर्णः विद्यार्थी भारतीयानां प्रादेशिकानां यथा प्रशासनिकानां नैयायिकानाम् आरक्षकबिभागीयादीनां परीक्षाणां नियुक्तीनां कृते अपि अर्हः भविष्यति। आशयः अयम् अस्ति यत् विशिष्टशास्त्रिपदवीकस्य सर्वाः अपि अर्हताः ताः एव भविष्यन्ति याः कलास्नातकस्य (B.A.) भवन्ति। विद्यालयेषु संस्कृत-अध्यापकत्वेन नियुक्तिनिमित्तं लब्धशास्त्रिपदवीकः विद्यार्थी अर्हः भविष्यति।
शास्त्री एवं विशिष्टशास्त्री
सर्वासामपि कक्षाणां छात्राणां कृते व्याकरणसाहित्ये अनिवार्यविषयत्वेन स्तः। वेददर्शनज्योतिषां कौचित् अन्यतमौ विषयौ ऐच्छिकविषयरूपेण चीयते। विशिष्टशास्त्रिनिमित्तम् एवम् एव संस्कृतस्य चतुर्भिः विषयैः समम् एव कलास्नातककक्षायाः विषयद्वयम् इतिहासेषु राजनीतिशास्त्र-आङ्ग्लं तथा च हिन्दी, कस्यचित् अन्यतमस्य चयनस्य विकल्पः अस्ति। कलास्नातकस्य विषयद्वयस्य अध्येतारः छात्राः एव विशिष्टशास्त्री इति उपाधिं प्राप्तुं शक्ष्यन्ति।
प्राक्शास्त्री एवं शास्त्रिकक्षासु प्रवेशार्थम् आवश्यकानां प्रमाणपत्राणां सूची
- आवेदनपत्रम्।
- दशमकक्षायाः प्रमाणपत्रम् (छायाप्रतिः)।
- +2 कक्षायाः प्रमाणपत्रम्।
- छात्रस्य चित्रद्वयम्।
- विद्यालय-त्याग-प्रमाण-पत्रम्।
- चरित्रप्रमाणपत्रम्।
- एस सी/ एस टी/ओ बी सी/ आई आर डी पी/ बी पी एल/ अल्पसंख्यक- समुदायः दिव्यांगता इत्यादिषु किञ्चन प्रमाणपत्रम् यदि अस्ति तर्हि (छायाप्रतिः)।
- आधारप्रमाणपत्रम् (छायाप्रतिः)।
- हिमाचलप्रदेशस्य स्थायी-निवास-प्रमाणपत्रम्।
- यदि पात्रतापरीक्षा हिमाचलप्रदेशात् अन्यस्मात् कस्मात् अपि प्रदेशस्य बोर्ड अथवा विश्वविद्यालयात् उत्तीर्णा अस्ति तर्हि प्रव्रजनप्रमाणपत्रम् अपेक्षितम् अस्ति एव।
