शिक्षाक्षेत्रे लब्धप्रतिष्ठोऽयं राजकीय-संस्कृतमहाविद्यालयः द्वयाशीत्यधिक-एकोनविंशतिशतात् छिष्टाब्दाद् (1982) आरभ्य स्वकीयं महनीयं स्थानम् आदधाति। विद्यानुरागिभिः डॉ. दीनानाथशर्मणा बिलासपुरजनपदस्य डंगारस्थे लक्ष्मीनारायण-मन्दिर-परिसरे संस्कृतमहाविद्यालयस्य स्थापना कृता। मानवजीवनोत्कर्षकाणां शास्त्राणाम् अध्ययनाध्यापने संलग्नायाः अस्याः संस्थायाः महत्त्वमुपयोगिताञ्च दृष्ट्वा हिमाचलसर्वकारेण राजकीयसंस्कृतमहाविद्यालयरूपेण अस्य अधिग्रहणं कृतम्। छात्रेषु उत्तमगुणाधानेन, इयं संस्था समस्तराष्ट्राणां नागरिकाणां निर्माणे विविधाने आदर्शान् स्थापयति।
शिक्षा आध्यात्मिकम्, बौद्धिकम्, शारीरिकम्, मानसिकञ्च विकासं करोति। अस्मदीये महाविद्यालये छात्राणां व्यक्तित्वस्य सर्वाङ्गीणविकासाय शैक्षणिक-सांस्कृतिक-सामाजिक-नैतिक-मूल्यवर्धकानां कार्यक्रमाणां शृङ्खला अनवरतम् आवर्षं परिवर्तते। छात्राः विविधासभिः प्रतियोगिताभिः कार्यक्रमैश्च कौशलापन्नाः लाभान्विताः सन्तः आत्मनिर्भर-भारतस्य सङ्कल्पनां परिपूरयन्ति। तपस्या समं भवन्ति ज्ञानप्राप्त्युपायाः। एतन्निमित्तं श्रद्धानिष्ठाभ्यां सहैव अनुशासन-जिज्ञासा-स्वाध्याय-प्रतिबद्धतादीनां परमावश्यकता भवति। एतैः गुणैः युक्तः छात्रगणो भवतु।
छात्रहिते सदा निरतः, अस्य महाविद्यालयस्य सुयोग्यः आचार्यवर्गः कर्मठः अत्यन्तम् अनुभवी च वर्तते। तस्मात् अस्माकीनाः छात्राः विविधासु प्रतियोगितासु परीक्षास्सु उच्चस्थानं प्राप्नुवन्ति। सविश्वासम् आशासे अहं यत् गरिमामयीं परम्पराम् एताम् अग्रे अनुसरिष्यन्ति भवन्तः। सश्रद्धाः निष्ठापूर्वकं भवन्तः शिक्षकाणाम् आशीर्वादात्मकं मार्गदर्शनं प्राप्स्यन्ति।
भवन्तः सर्वेऽपि स्वकीयं स्वर्णिमं लक्ष्यं प्राप्नुवन्तु एतन्निमित्तं महाविद्यालयः सदैव कार्यरतः भविष्यति। अतः भवन्तः अपि स्वलक्ष्यं प्राप्तुं बद्धकटयः भवन्तु—
“उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।”प्राचार्यः
