Govt. Sanskrit College, Dangar,Teh. Ghumarwin, Distt. Bilaspur (H.P.)

प्रवेशतिथिविस्तारसम्बद्धा सूचना : विभिन्नेषु स्नातक (UG) कार्यक्रमेषु प्रवेशस्य अन्तिमतिथिः १५-०९-२०२६ यावत् विस्तारिता अस्ति।


संसूचनाः

विकसित भारत के संकल्प की ओर एक सशक्त कदम": राजकीय संस्कृत महाविद्यालय, डंगार में 23 सितंबर 2026 को आयोजित कार्यक्रम

The Golden Quill Club, English Department, Government Sanskrit College, Dangar, organised a one-day workshop on Resume Writing on 21 September 2026

राजकीय संस्कृत महाविद्यालय, डंगार में हिंदी साहित्यिक क्लब द्वारा 14 सितंबर 2026 को हिंदी दिवस का आयोजन उत्साहपूर्वक किया गया। कार्यक्रम में विद्यार्थियों ने विभिन्न साहित्यिक एवं रचनात्मक प्रतियोगिताओं में बढ़-चढ़कर भाग लिया।

राजकीय संस्कृत महाविद्यालय, तुंगेश, शिमला में 26 अगस्त 2026 को आयोजित राज्य स्तरीय संस्कृत प्रतियोगिताओं में राजकीय संस्कृत महाविद्यालय, डंगार के विद्यार्थियों का उत्कृष्ट प्रदर्शन

ए आई के दौर में कौशल विकास एवं रोजगार के बदलते अवसरों पर राजकीय संस्कृत महाविद्यालय, डंगार के कैरियर काउंसलिंग एवं प्लेसमेंट सेल द्वारा अतिथि व्याख्यान का आयोजन : 25 अगस्त 2026




महाविद्यालयस्य विषये

राजकीयसंस्कृतमहाविद्यालयः डंगारः विगतेभ्यः चतुश्चत्वारिंशद्वर्षेभ्यः संस्कृतस्य संस्कृतेश्च निष्ठाया सेवां कुर्वन् अस्ति। डंगार-ग्रामस्थे श्रीलक्ष्मीनारायणमन्दिरस्य प्राङ्गणे विद्याप्रेमी डॉ. दीनानाथशर्म-महोदयेन अस्मिन् क्षेत्रे भारतीयविद्यायाः संरक्षणाय सांस्कृतिकशिक्षायाश्च संवर्धनाय सन् १९८२ तमस्य वर्षस्य अप्रैल-मासे रामनवम्याः पुण्यदिने श्रीसरस्वतीसंस्कृतमहाविद्यालयस्य स्थापना कृता। तस्मिन् समये अस्य महाविद्यालयस्य प्रबन्धसमितेः संरक्षकः पण्डित-सीतारामशर्मा (भूतपूर्वसंसदीयसचिवः) आसीत्, तथा च समितेः अध्यक्षः श्रीलक्ष्मणदत्तशास्त्री, उपाध्यक्षश्च लच्छुराममहाजनः (भूतपूर्वः प्रधानः) इत्येतयोः नेतृत्वे वर्तमानभवनस्य निर्माणपर्यन्तं महाविद्यालयः श्रीलक्ष्मीनारायणमन्दिरे एव सञ्चालितः।

अस्य महाविद्यालयस्य प्रशासनिकव्यवस्था प्रथमप्राचार्येण श्रीजगमोहनमङ्गलेट-व्याकरणाचार्येण अधिष्ठिता आसीत्। सः एतत् कार्यं सन् १९८३ पर्यन्तं निरूढवान्। ततः परं महाविद्यालयस्य संस्थापकः डॉ. दीनानाथशर्मा स्वकीयां सरकारीसेवां त्यक्त्वा प्राचार्यपदस्य दायित्वं स्वीकृत्य सन् २०१४ पर्यन्तं निरन्तरं निरूढवान्। १९८३–८४तमे ख्रिस्ताब्दे महाविद्यालयस्य भवनं समाजस्य सरकारी-विभागानां च सहयोगेन निर्मितम्। अस्मिन् महाविद्यालये शास्त्री-प्रभाकर-आचार्य-पाठ्यक्रमाः सञ्चालिताः। तेषां परीक्षासु महाविद्यालयस्य छात्राः प्रतिवर्षं विश्वविद्यालयस्य वरीयती-सूच्याम् उत्कृष्टस्थानानि अलभन्त। अस्मात् महाविद्यालयात् उत्तीर्णाः छात्राः विविधेषु सरकारीपदेषु नियुक्ताः सन्ति, यथा विश्वविद्यालयेषु महाविद्यालयेषु च प्राध्यापकाः, भारतीयसेनायां धर्मगुरवः, विद्यालयेषु प्रवक्तारः, शास्त्री-अध्यापकाः, अधीक्षकाः, अन्येषु च विविधसरकारीसेवास्थानेषु नियुक्ताः अभवन्। सन् २०२१ तमे वर्षे हिमाचलप्रदेश-सरकारेण अस्य महाविद्यालयस्य अधिग्रहणं कृतम्।

सर्वं पठन्तु